032: पुरुवंशानुकीर्तनम्

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

खिलभागे हरिवंशः

हरिवंश पर्व

अध्याय 32

सार

पुरुविन वंशदल्लि ऋचेयुविन वंशपरंपरॆ – अजमीढवंश, पांचाल मत्तु सोमकवंश, कौरववंश मत्तु हागॆये तुर्वसु, द्रुह्यु मत्तु अनुविन संततिगळ वर्णनॆ (1-129).

वैशंपायन उवाच
अनाधृष्यस्तु राजर्षिरृचेयुश्चैकराट्स्मृतः ।
ऋचेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा ।। १-३२-१

वैशंपायननु हेळिदनु: “राजर्षि ऋचेयुवु एकछत्र साम्राटनॆंदु करॆयल्पट्टिद्दनु. अवनु इतररिगॆ अजेयनागिद्दनु. ऋचेयुविगॆ तक्षकात्मजॆ ज्वलना ऎंब हॆसरिन पत्नियिद्दळु.

तस्यां स देव्यां राजर्षिर्मतिनारो महीपतिः ।
मतिनारसुताश्चासंस्त्रयः परमधार्मिकाः ।। १-३२-२

आ देवियल्लि राजर्षि महीपति मतिनारनु जनिसिदनु. मतिनारनिगॆ मूवरु परमधार्मिक पुत्ररादरु.

तंसुराद्यः प्रतिरथः सुबाहुश्चैव धार्मिकः ।
गौरी कन्या च विख्याता मांधातृजननी शुभा ।। १-३२-३

मॊदलनॆयवनु तंसु, नंतर प्रतिरथ मत्तु धर्मात्म सुबाहु. मतिनारनिगॆ गौरी ऎंब कन्यॆयू इद्दळु. आ शुभॆये मांधातन जननि ऎंदु विख्यातळागिद्दळु.

सर्वे वेदविदस्तत्र ब्रह्मण्याः सत्यवादिनः ।
सर्वे कृतास्त्रा बलिनः सर्वे युद्धविशारदाः ।। १-३२-४

अवरॆल्लरू वेदविदरू ब्रह्मण्यरू सत्यवादिगळू आगिद्दरु. ऎल्लरू कृतास्त्ररागिद्दरु. आ ऎल्ल बलशालिगळू युद्धविशारदरागिद्दरु.

पुत्रः प्रतिरथस्यासीत्कण्वः समभवन्नृपः ।
मेधातिथिः सुतस्तस्य यस्मात्काण्वायना द्विजाः ।। १-३२-५

प्रतिरथनिगॆ नृप कण्वनु पुत्रनादनु. अवन पुत्रनु मेधातिथियु. अवनिंद कण्वायन ब्राह्मणर परंपरॆयु प्रचलितवायितु.

ईलिनी भूप यस्याऽऽसीत्कन्या वै जनमेजय ।
ब्रह्मवादिन्यधि स्त्रीं च तंसुस्तामभ्यगच्छत ।। १-३२-६

जनमेजय! ब्रह्मवादिगळल्लि उत्कृष्टनॆंदॆनिसिद्द राजन कन्यॆ ईलिनियन्नु तंसुवु पत्नियन्नागि पडॆदुकॊंडनु.

तंसोः सुरोधो राजर्षिर्धर्मनेत्रो महायशाः ।
ब्रह्मवादी पराक्रांतस्तस्य भार्योपदानवी ।। १-३२-७

तंसुविन मगनु राजर्षि सुरोधनु. अवनु धर्मनेत्रनॆंदू महायशस्सन्नु हॊंदिद्दनु. ब्रह्मवादियू पराक्रांतनू आगिद्द अवन पत्नियु उपदानवियागिद्दळु.

उपदानवी सुताऽन् लेभे चतुरस्त्वैलिकात्मजान् ।
दुष्यंतमथ सुष्मंतं प्रवीरमनघं तथा ।। १-३२-८

उपदानवियु नाल्वरु पुत्ररन्नु पडॆदळु: दुष्यंत, सुष्मंत, प्रवीर, मत्तु अनघ.

दुष्यंतस्य तु दायादो भरतो नाम वीर्यवान् ।
स सर्वदमनो नाम नागायुतबलो महान् ।। १-३२-९

दुष्यंतन पुत्रनु भरतनॆंब वीर्यवाननु. साविर आनॆगळ बलविद्द आ महान् पुरुषनु सर्वदमन ऎंब हॆसरन्नू पडॆदिद्दनु.

चक्रवर्ती सुतो जज्ञे दुष्यंतस्य महात्मनः ।
शकुंतलायां भरतो यस्य नाम्ना स्थ भारताः ।। १-३२-१०

महात्म दुष्यंतनिगॆ शकुंतलॆयल्लि हुट्टिद्द मग भरतनिंदले निमगॆ भारतरॆंब हॆसरु बंदितु.

दुष्यंतं प्रति राजानं वागुवाचाशरीरिणी ।
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।। १-३२-११

राजा दुष्यंतनिगॆ अशरीर वाणियु हीगॆ हेळित्तु: “मातॆयु तॊगलिन चील. याव तंदॆयिंद पुत्रनु हुट्टुत्तानो अवने अवनु.

भरस्व पुत्रं दुष्यंत मावमंस्थाः शकुंतलाम् ।
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।। १-३२-१२

दुष्यंत! पुत्रनन्नु पालिसु. शकुंतलॆयन्नु अवमानगॊळिसबेड. नरदेव! तन्नदे रेतदिंद हुट्टिद पुत्रनु तंदॆयन्नु यमक्षयदिंद उद्धरिसुत्तानॆ.

त्वं चास्य धाता गर्भस्य सत्यमाह शकुंतला ।
भरतस्य विनष्टेषु तनयेषु महीपतेः ।। १-३२-१३

इवनु गर्भवन्नित्तवनु नीने. शकुंतलॆयु सत्यवन्ने हेळिद्दाळॆ.” महीपति भरतन तनयरु विनाशहॊंदिदरु.

मातॄणां तात कोपेन मया ते कतिथं पुरा ।
बृहस्पतेरांगिरसः पुत्रो राजन्महामुनिः ।
संक्रामितो भरद्वाजो मरुद्भिः ऋतुभिर्विभुः ।। १-३२-१४

अय्या! मातृगळ कोपदिंद हीगॆ आगित्तु. इदर कुरितु नानु निनगॆ मॊदले हेळिद्देनॆ. राजन्! क्रतुविनल्लि मरुद्गणगळु अवनिगॆ आंगिरस बृहस्पतिय पुत्र महामुनि भरद्वाजनन्ने पुत्रनन्नागि माडि कॊट्टिद्दरु.

अत्रैवोदाहरंतीमं भरद्वाजस्य धीमतः ।
धर्मसंक्रमणं चापि मरुद्भिर्भरताय वै ।। १-३२-१५

मरुद्गणगळु धीमत भरद्वाजनन्नु भरतनिगॆ कॊट्ट ई विषयवन्नु धर्मसंक्रमणद उदाहरणॆयागि कॊडुत्तारॆ.

अयोजयद्भरद्वाजो मरुद्भिः क्रतुभिर्हितम् ।
पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि ।। १-३२-१६

भरद्वाजनु मरुद्गणगळॊंदिगॆ भरतन क्रतुवन्नु पूरैसिदनु. इदक्कॆ मॊदलु भरतन पुत्रजन्मद कुरिताद ऎल्ल प्रयत्नगळू वितथ (व्यर्थ) वागिद्दवु.

ततोऽथ वितथो नाम भरद्वाजसुतोऽभवत् ।
ततोऽथ वितथे जाते भरतस्तु दिवं ययौ ।। १-३२-१७

आदुदरिंद भरद्वाजसुतनु वितथ ऎंब हॆसरन्नु पडॆदुकॊंडनु. वितथनु हुट्टलु भरतनु स्वर्गक्कॆ होदनु.

वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ।
स राजा वितथः पुत्रांजनयामास पंच वै ।। १-३२-१८

वितथनन्नु अभिषेकिसि भरद्वाजनु वनक्कॆ तॆरळिदनु. राजा वितथनु ऐवरु पुत्ररिगॆ जन्मवित्तनु.

सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ।
कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् ।। १-३२-१९

सुहोत्र, सुहोतार, गय, गर्ग मत्तु कपिल. महात्म सुहोत्रनिगॆ ईर्वरु पुत्ररिद्दरु.

काशिकश्च महासत्त्वस्तथा गृत्समतिर्नृपः ।
तथा गृत्समतेः पुत्रा ब्राह्मणः क्षत्रिया विशः ।। १-३२-२०

महासत्त्वयुत काशिक मत्तु नृप गृत्समति. गृत्समतिगॆ ब्राह्मण-क्षत्रिय-वैश्य पुत्ररादरु.

काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा1
बभूव दीर्घतपसो विद्वांधन्वंतरिः सुतः ।। १-३२–२१

काशिकनिगॆ काशेय मत्तु दीर्घतप ऎन्नुव ईर्वरु पुत्ररादरु. विद्वान् धन्वंतरिरु दीर्घतपसन मगनादनु.

धन्वंतरेस्तु तनयः केतुमानिति विश्रुतः ।
अथ केतुमतः पुत्रो वीरो भीमरथो नृप ।। १-३२-२२

धन्वंतरिय मगनु केतुमाननॆंदु विश्रुतनादनु. केतुमानन पुत्रनु वीर नृप भीमरथनु.

सुतो भीमरथस्यासीद्दिवोदासः प्रजेश्वरः ।
दिवोदास इति ख्यातः सर्वरक्षोविनाशनः ।। १-३२-२३

भीमरथन सुतनु प्रजेश्वर दिवोदासनागिद्दनु. दिवोदासनु सर्वराक्षसर विनाशकनॆंदु ख्यातनागिद्दनु.

2एतस्मिन्नेव काले तु पुरीं वाराणसीं नृप ।
शून्यां निवेशयामास क्षेमको नम राक्षसः ।
शप्ता हि सा मतिमता निकुंभेन महात्मना ।
शून्या वर्षसहस्रं वै भवित्रीति नराधिप ।। १-३२-२४

नृप! इदे कालदल्लि शून्यवागिद्द वाराणसी पुरियन्नु क्षेमक ऎंब हॆसरिन राक्षसनु वासिसुत्तिद्दनु. नराधिप! मतिवंत महात्म निकुंभनु आ पुरिगॆ सहस्रवर्षगळ पर्यंत शून्यवागिरु ऎंदु शपिसिद्दनु.

तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
विषयांते पुरीं रम्यां गोमत्यां संन्यवेशयत् ।। १-३२-२५

आ पुरियु शपितवादाग प्रजेश्वर दिवोदासनु राज्यद गडियल्लि गोमती तीरदल्लि रम्य पुरियल्लि वासिसुत्तिद्दनु.

भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी भवत् ।
यदुवंशप्रसूतस्य तपस्यभिरतस्य च ।। १-३२-२६

आ हिंदॆ वाराणसी पुरियु यदुवंशप्रसूत तपोनिरत भद्रश्रेण्यनदागित्तु.

भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ।
हत्वा निवेशयामास दिवोदासः प्रजेश्वरः ।। १-३२-२७

भद्रश्रेण्यन नूरु उत्तमधन्वी पुत्ररन्नु संहरिसि प्रजेश्वर दिवोदासनु आ पुरियल्लि वासिसुत्तिद्दनु.

दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः ।
प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गस्तथैव च ।। १-३२-२८

दिवोदासन पुत्रनादरो वीर राजा प्रतर्दननु. प्रतर्दनननिगॆ ईर्वरु पुत्ररिद्दरु: वत्स मत्तु भार्ग.

अलर्को राजपुत्रस्तु राजा सन्नतिमान्भुवि ।
हैहयस्य तु दायाद्यं हृतवान्वै महीपतिः ।। १-३२-२९

वत्सन राजपुत्र अलर्कनु भुवियल्लि राजा सन्नतिमाननादनु. आ महीपतियु हैहयन दायाद्यवन्नु अपहरिसिद्दनु.

आजह्रे पितॄदायाद्यं दिवोदासहृतं बलात् ।
भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना ।
दिवोदासेन बालेति घृणया परिवर्जितः ।। १-३२-३०

दिवोदासनु अपहरिसिद पितृदायाद्यवन्नु भदश्रेष्न्यन पुत्र महात्मा दुर्दमनु हिंतॆगॆदुकॊंडनु. बालकनॆंदु तिळिदु करुणॆयिंद दिवोदासनु अवनन्नु जीवंत बिट्टुबिट्टिद्दनु.

अष्टारथो नाम नृपः सुतो भीमरथस्य वै।
तेन पुत्रेषु बालेषु प्रहृतं तस्य भारत ।। १-३२-३१

भारत! भीमरथनिगॆ अष्टारथनॆंब नृपसुतनू इद्दनु. अवन पुत्ररु बाल्यदल्लिये अपहृतरागिद्दरु.

वैरस्यांतं महाराज क्षत्रियेण विधित्सता ।
अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसंगरः ।। १-३२-३२

महाराज! ई वैरद अंत्यदल्लि क्षत्रिय विधियंतॆ ब्रह्मण्य सत्यसंगर अलर्कनु काशिराजनादनु.

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
तस्याऽऽसीत्सुमहद्राज्यं रूपयौवनशालिनः ।। १-३२-३३

रूपयौवनशालियाद अवनु अरवत्तु साविरद आरुनूरु वर्षगळ पर्यंत आ महाराज्यवन्नु आळिदनु.

युवा रूपेण संपन्न आसीत्काशिकुलोद्वहः ।
लोपामुद्राप्रसादेन परमायुरवाप सः ।। १-३२-३४

आ काशिकुलोद्वहनु यौवन रूपगळिंद संपन्ननागिद्दनु. लोपामुद्रॆय प्रसाददिंद दीर्घ आयुस्सन्नू पडॆदिद्दनु.

वयसोऽंते महाबाहुर्हत्वा क्षेमकराक्षसम् ।
शून्यां निवेशयामास पुरीं वाराणसीं नृप ।। १-३२-३५

अंत्यदल्लि आ महाबाहु नृपनु क्षेमक राक्षसनन्नु संहरिसि शून्य वाराणसी पुरियल्लि वासिसतॊडगिदनु.

अलर्कस्य तु दायादः सुनीथो नाम पार्थिवः ।
सुनीथस्य तु दायादः क्षेम्यो नाम महायशाः ।। १-३२-३६

अलर्कन मगनु सुनीथ ऎंब हॆसरिन पार्थिवनु. सुनीथन मगनु क्षेम ऎंब महायशस्वियु.

क्षेम्यस्य केतुमान्पुत्रो वर्षकेतुस्ततोऽभवत् ।
वर्षकेतोस्तु दायादो विभुर्नाम प्रजेश्वरः ।। १-३२-३७

क्षेमन पुत्रनु केतुमाननु. वर्षकेतुवु अवन पुत्रनु. वर्षकेतुविन पुत्रनु विभु ऎंब हॆसरिन प्रजेश्वरनु.

आनर्तस्तु विभोः पुत्रः सुकुमारस्ततोऽभवत् ।
पुत्रस्तु सुकुमारस्य सत्यकेतुर्महारथः ।। १-३२-३८

आनर्तनु विभुविन पुत्रनु. अवन पुत्रनु सुकुमार. सुकुमारन पुत्रनु महारथ सत्यकेतु.

ततोऽभवन्महातेजा राजा परमधार्मिकः ।
वत्सस्य वत्सभूमिस्तु भार्गभूमिस्तु भार्गवात् ।। १-३२-३९

अवनु महातेजस्वी परमधार्मिक राजनागिद्दनु. वत्सनिगॆ वत्सभूमि मत्तु भार्गनिगॆ भार्गभूमियरु मक्कळादरु.

एते त्वंगिरसः पुत्रा जाता वंशेऽथ भार्गवे ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च भरतर्षभ ।। १-३२-४०

इवरु अंगिरस गोत्रदल्लि भार्गव वंशदल्लि आद गालवन वंशजरु. भरतर्षभ! अवरिगॆ सहस्रारु ब्राह्मण, क्षत्रिय, वैश्य मत्तु शूद्र पुत्ररादरु.

3सुहोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः ।
अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् ।। १-३२-४१

सुहोत्रन मगनु बृहत्. बृहतनिगॆ मूवरु पुत्ररु: अजमीढ, द्विमीढ मत्तु वीर्यवान् पुरुमीढ.

अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः ।
नीलिनी केशिनी चैव धूमिनी च वरांगना ।। १-३२-४२

अजमीढनिगॆ मूवरु यशसान्वित पत्नियरिद्दरु: नीलिनी, केशिनी मत्तु वरांगनॆ धूमिनी.

अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ।
आजह्रे यो महासत्रं सर्वमेधं महामखम् ।। १-३२-४३

अजमीढनिगॆ केशिनियल्लि प्रतापवान् जह्नुवु हुट्टिदनु. अवनु महासत्र महामख सर्वमेधवन्नु यजिसिदनु.

पतिलोभेन यं गंगा विनीताभिससार ह ।
नेच्छतः प्लावयामास तस्य गंगाथ तत्सदः ।। १-३२-४४

अवनन्नु पतियन्नागि बयसि गंगॆयु विनीतळागि अवन बळिसारिदाग अवनु अवळन्नु इष्टपडदिरलु गंगॆयु आ सदस्सन्नु तन्न प्रवाहदल्लि मुळुगिसिदळु.

स तया प्लावितं दृष्ट्वा यज्ञवाटं परंतप ।
जह्नुरप्यब्रवीद्गंगां क्रुद्धो भरतसत्तम ।। १-३२-४५

भरतसत्तम! अवळु यज्ञवाटिकॆयन्नु मुळुगिसुत्तिरुवुदन्नु कंडु परंतप जह्नुवु क्रुद्धनागि गंगॆगॆ हेळिदनु:

एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्यहम् ।
अस्य गंगेऽवलेपस्य सद्यः फलमवाप्नुहि ।। १-३२-४६

“गंगे! ई मूरु लोकगळल्लिरुव ऎल्ल नीरन्नू ऒंदे गुटुकिनल्लि नानु कुडियबल्लॆनु. नन्नन्नु आक्रमणिसिद नीनु सद्यवे अदर फलवन्नु अनुभविसुत्तीयॆ.”

ततः पीतां महात्मानो गंगां दृष्ट्वा महर्षयः ।
उपनिन्युर्महाभागा दुहितृत्वाय जाह्नवीम् ।। १-३२-४७

आग आ महात्मनु गंगॆयन्नु कुडिदुदन्नु नोडि महर्षिगळु अवन मॊरॆहॊगलु अवनु महाभागॆ गंगॆयन्नु मगळन्नागि माडिकॊंडनु. अवळु जाह्नवियादळु.

युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ।
गंगाशापेन देहार्धं यस्याः पश्चान्नदीकृतम् ।। १-३२-४८

युवनाश्वन पुत्रि कावेरियन्नु जह्नुवु मदुवॆयादनु. नंतर गंगॆय शापदिंद अवळ देहार्धवु नदियागि हरियितु.

जह्नोस्तु दयितः पुत्रस्त्वजको नाम वीर्यवान् ।
अजकस्य तु दायादो बलाकाश्वो महीपतिः ।। १-३२-४९

जह्नुविन प्रिय पुत्रनु अजक ऎंब वीर्यवंतनु. अजकन मगनु महीपति बलाकाश्व.

बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः ।
पह्लवैः सह संरुद्धो राजा वनचरैस्तदा ।। १-३२-५०

अवन मग कुशिकनु बेटॆयल्लि आसक्तनागिद्दनु. आ राजनु वनचर पह्लवरॊंदिगॆ वैरवन्नु कट्टिकॊंडनु.

कुशिकस्तु तपस्तेपे पुत्रमिंद्रसमं प्रभुः ।
लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् ।। १-३२-५१

प्रभु कुशिकनादरो इंद्रसम पुत्रनन्नु पडॆयलोसुग तपस्सन्नु तपिसिदनु. अवनिगॆ शक्रने मगनागि जनिसिदनु.

स गाधिरभवद्राजा मघवान्कौशिकः स्वयम् ।
विश्वामित्रस्तु गाधेयो राजा विश्वरथस्तदा ।। १-३२-५२
विश्वकृद्विश्वजिच्चैव तथा सत्यवती नृप ।
ऋचीकाज्जमदग्निस्तु सत्यवत्यामजायत ।। १-३२-५३

नृप! राजन्! स्वयं मघवानने कौशिक राजा गाधियादनु. गाधिगॆ विश्वामित्र, विश्वरथ, विश्वकृत्, मत्तु विश्वजित् हागू सत्यवती ऎंब मक्कळादरु. सत्यवतियल्लि ऋचीकनिगॆ जमदग्नियु हुट्टिदनु.

विश्वामित्रस्य तु सुता देवरातादयः स्मृताः ।
प्रख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु ।। १-३२-५४

देवरात मॊदलादवरु विश्वामित्रन मक्कळॆंदु प्रतीतियिदॆ. मूरु लोकगळल्लियू प्रख्यातराद अवर हॆसरुगळन्नु नन्निंद केळु.

देवश्रवाः कतिश्चैव यस्मात्कात्यायनाः स्मृताः ।
शालावत्या हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान् ।। १-३२-५५
सांकृत्यो गालवो राजन्मौद्गल्यश्चेति विश्रुताः ।
तेषां ख्यातानि गोत्राणि कौशिकानां महात्महाम् ।। १-३२-५६
पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ।
पार्थिवा देवराताश्च शालंकायनसौश्रवाः ।। १-३२-५७
लौहित्या यामदूताश्च तथा कारीषयः स्मृताः ।
विश्रुताः कौशिका राजंस्तथान्ये सैंधवायनाः ।। १-३२-५८
ऋष्यंतरविवाह्याश्च कौशिका बहवः स्मृताः ।
पौरवस्य महाराज ब्रह्मर्षेः कौशिकस्य ह ।। १-३२-५९
संबंधो ह्यस्य वंशेऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः ।
विश्वामित्रात्मजानां तु शुनःशेपोऽग्रजः स्मृतः ।। १-३२-६०
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ।
देवरातादयश्चान्ये विश्वामित्रस्य वै सुताः ।। १-३२-६१
दृषद्वतीसुतश्चापि विश्वामित्रादथाष्टकः ।
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ।। १-३२-६२
आजमीढोऽपरो वंशः श्रूयतां पुरुषर्षभ ।
अजमीढस्य नीलिन्यो सुशांतिरुदपद्यत ।। १-३२-६३

भरतर्षभ! अजमीढनॆंब इन्नॊब्ब राजन वंशद वर्णनॆयन्नु केळु. अजमीढनिगॆ नीलिनियल्लि सुशांतियु हुट्टिदनु.

पुरुजातिः सुशांतेस्तु वाह्याश्वः पुरुजातितः ।
वाह्याश्वतनयाः पंच बभूवुरमरोपमाः ।। १-३२-६४

सुशांतियल्लि पुरुजाति मत्तु पुरुजातियल्लि वाह्याश्वनु हुट्टिदरु. वाह्वाश्वनिगॆ अमरोपम ऐवरु तनयरिद्दरु.

मुद्गलः सृंजयश्चैव राजा बृहदिषुः स्मृतः ।
यवीनरस्च विक्रांतः कृमिलाश्वश्च पंचमः ।। १-३२-६५

मुद्गल, सृंजय, राजा बृहदिषु, यवीनर मत्तु ऐदनॆयवनु विक्रांत कृमिलाश्व.

पंचैते रक्षणायालं देशानामिति विश्रुताः ।
पंचानां विद्धि पंचालान्स्फीतैर्जनपदैर्वॄतान् ।। १-३२-६६

ई ऐवरू देशगळन्नु रक्षिसुवुदरल्लि अलं अर्थात् समर्थरॆंदु विश्रुतरागिद्दरु. आ ऐवर जनपदगळु सेरि पांचालवॆनिसितु ऎंदु तिळिदुको.

अलं संरक्षणं तेषां पंचाला इति विश्रुताः ।
मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः ।। १-३२-६७

संरक्षणॆय समर्थरागिद्द अवरु पांचालरॆंदे विश्रुतरादरु. मुद्गलन मग मौद्गल्यनादरो महायशस्वियागिद्दनु.

सर्व एते महात्मानः क्षत्रोपेता द्विजातयः ।
एते ह्यंगिरसः पक्षं संश्रिताः कण्वमौद्गलाः ।। १-३२-६८

ई ऎल्ल महात्मरू क्षत्रधर्मोपेत ब्राह्मणरागिद्दरु. अंगिरसन पक्षदवराद इवरु ऒट्टिगे कण्व-मौद्गलरॆंदु करॆयल्पट्टिद्दरु.

मौद्गल्यस्य सुतो ज्येष्ठो ब्रह्मर्षिः सुमहायशाः ।
इंद्रसेनो यतो गर्भं वध्र्यश्वं प्रत्यपद्यत ।। १-३२-६९

मौद्गल्यन ज्येष्ठ पुत्रनु ब्रह्मर्षि सुमहायशस्वी इंद्रसेननागिद्दनु. अवनिंद वृध्र्यश्वनु जनिसिदनु.

वृध्र्यश्वान्मिथुनं जज्ञे मेनकायामिति श्रुतिः ।
दिवोदासश्च राजर्षिरहल्या च यशस्विनी ।। १-३२-७०

वृध्र्यश्वनिगॆ मेनकॆयल्लि अवळि-जवळि मक्कळु जनिसिदरॆंदु केळिद्देवॆ: राजर्षि दिवोदास मत्तु यशस्विनी अहल्या.

शरद्वतस्य दायादमहल्या समसूयत ।
शतानंदमृषिश्रेष्ठं तस्यापि सुमहायशाः ।। १-३२-७१

महायशस्वी अहल्यॆयु शरद्वत (गौतम) न मग ऋषिश्रेष्ठ शतानंदनिगॆ जन्मवित्तळु.

पुत्रः सत्यधृतिर्नाम धनुर्वेदस्य पारगः ।
तस्य सत्यधृते रेतो दृष्ट्वाप्सरसमग्रतः ।। १-३२-७२
अवस्कन्नं शरस्तंबे मिथुनं समपद्यत ।

पुत्र सत्यधृति4 ऎंब हॆसरिन शतानंदन पुत्रनु धनुर्वेदपारंगतनागिद्दनु. ऎदुराद अप्सरॆयन्नु नोडि सत्यधृतिय वीर्यवु शरस्तंबदल्लि स्कलनवागलु, अदरिंद ऒंदु अवळि मक्कळु हुट्टिदरु.

कृपया तच्च जग्राह शंतनुर्मृगयां गतः ।। १-३२-७३
कृपः स्मृतः स वै तस्माद्गौतमी च कृपी तथा ।
एते शारद्वताः प्रोक्ता एते ते गौतमाः स्मृताः ।। १-३२-७४

बेटॆगॆंदु होगिद्द शंतनुवु अवरन्नु कृपॆयिंद स्वीकरिसिदनु. अवने कृपनॆंदादनु. अवळु गौतमी कृपियादळु. इवरु शारद्वतरॆंदू गौतमरॆंदू करॆयल्पट्टरु.

अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य संततिम् ।
दिवोदासस्य दायादो ब्रह्मर्षिर्मित्रयुर्नृपः ।। १-३२-७५

इन्नु मुंदॆ दिवोदासन संततिय कुरितु हेळुत्तेनॆ. दिवोदासन मगनु ब्रह्मर्षि नृप मित्रयु.

मैत्रायणस्ततः सोमो मैत्रेयास्तु ततः स्मृताः ।
एते हि संश्रिताः पक्षं क्षत्रोत्पेतास्तु भार्गवाः ।। १-३२-७६

मित्रयुविन मगनु मैत्रायणनु. अवन मग सोमन वंशजरन्नु मैत्रेयरॆंदु हेळुत्तारॆ. इवरु क्षत्रधर्मवन्नु अळवडिसिकॊंड भार्गव पक्षदवरु.

आसीत्पंचजनः पुत्रः सृंजयस्य महात्मनः ।
सुतः पंचजनस्यापि सोमदत्तो महीपतिः ।। १-३२-७७

सृंजयन पुत्रनु महात्म पंचजन. पंचजनन सुतनु महीपति सोमदत्तनु.

सोमदत्तस्य दायादः सहदेवो महायशः ।
सहदेवसुतश्चापि सोमको नाम पार्थिवः ।। १-३२-७८

सोमदत्तन मगनु महायशस्वी सहदेवनु. सहदेवन मगनु सोमक ऎन्नुव पार्थिवनु.

अजमीढात्पुनर्जातः क्षीणवंशे तु सोमकः ।
सोमकस्य सुतो जंतुर्यस्य पुत्रशतं बभौ ।। १-३२-७९

अजमीढवंशवु क्षीणिसुव समयदल्लि सोमकनु हुट्टिदनु. सोमकन मगनु जंतु5. जंतुविन बदलागि सोमकनल्लि नूरु पुत्ररु हुट्टिदरु.

तेषां यवीयान्पृषतो द्रुपदस्य पिता प्रभुः ।
धृष्टद्युम्नस्तु द्रुपदाद्धृष्टकेतुश्च तत्सुतः ।। १-३२-८०

अवरल्लि किरियवने दृपदन तंदॆ प्रभु पृषत. धृष्टद्युम्ननु द्रुपदन मग मत्तु धृष्टकेतुवु धृष्टद्युम्नन मग.

अजमीढाः स्मृता ह्येते महात्मानस्तु सोमकाः ।
पुत्राणामजमीढस्य सोमकत्वं महात्मनः ।। १-३२-८१

ई महात्मरन्नु अजमीढरॆंदु करॆयुत्तारॆ. अजमीढन पुत्र महात्म सोमकनिंदागि सोमकरॆंदू करॆयल्पट्टरु.

महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी ।
तृतीया तव पूर्वेषां जननी पृथिवीपते ।। १-३२-८२

पृथिवीपते! अजमीढन मूरने पत्नि धूमिनी ऎंब हॆसरिनवळु पुत्ररन्नु बयसिदळु. अवळे निन्न पूर्वजर जननि.

सा तु पुत्रार्थिनी देवी व्रतचर्यासमन्विता ।
ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।। १-३२-८३

पुत्रार्थिनियागिद्द आ देवियु व्रतचर्य समन्वितॆयागिद्दळु. अवळु हत्तु साविर वर्ष परम दुश्चर तपस्सन्नु तपिसिदळु.

हुत्वाग्निं विधिवत्सा तु पवित्रमितभोजना ।
अग्निहोत्रकुशेष्वेव सुष्वाप जनमेजय ।
धूमिन्या स तया देव्या त्वजमीढः समेयिवान् ।। १-३२-८४

जनमेजय! अवळु विधिवत्तागि अग्नियल्लि आहुतिगळन्नित्तु, पवित्र मित आहारगळन्नु सेविसुत्ता अग्निहोत्रद बुडदल्लिये दर्बॆगळ मेलॆ मलगुत्तिद्दळु. आ देवी धूमिनियॊडनॆ अजमीढनु कूडिदनु.

ऋक्षं संजनयामास धूमवर्णं सुदर्शनम् ।
ऋक्षात्संवरणो जज्ञे कुरुः संवरणात्तथा ।
यः प्रयागादतिक्रम्य कुरुक्षेत्रं चकार ह ।। १-३२-८५

अवळल्लि धूमवर्णद सुंदर ऋक्षनु जनिसिदनु. ऋक्षनिंद संवरणनु हुट्टिदनु. संवरणनल्लि प्रयागदिंद होगि कुरुक्षेत्रवन्नु स्थापिसिद कुरुवु हुट्टिदनु.

तद्वै तत्स महाभागो वर्षाणि सुबहून्यथ ।
तप्यमाने तदा शक्रो यत्रास्य वरदो बभौ ।। १-३२-८६

अल्लि महाभाग कुरुवु अनेक वर्षगळ तपस्सन्नाचरिसिदनु. आग शक्रनु अवनिगॆ वरवन्नित्तनु.

पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् ।
तस्यान्ववायः सुमहांस्तस्य नाम्ना स्थ कौरवाः ।। १-३२-८७

आ पुण्य रमणीय प्रदेशवन्नु पुण्यकर्मिगळु सेविसुत्तारॆ. कुरुविन वंशवु अति दॊड्डदु. अवनिंदले नीवु कौरवरॆंब हॆसरन्नु पडॆदुकॊंडिरि.

कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा ।
परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः ।। १-३२-८८

कुरुविगॆ नाल्वरु पुत्ररिद्दरु – सुधन्व, सुधनु, महाबाहु परीक्षित् मत्तु प्रवर अरिमेजय.

सुधन्वनस्तु दायादः सुहोत्रो मतिमांस्ततः ।
च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः ।। १-३२-८९

सुधन्वन मगनु सुहोत्रनु. सुहोत्रन मगनु मतिमाननु. अर्थकोविद राजा च्यवननु अवन पुत्रनु.

च्यवनात्कृतयज्ञस्तु इष्ट्वा यज्ञः स धर्मवित् ।
विश्रुतं जनयामास पुत्रमिंद्रसमं नृपः ।। १-३२-९०

च्यवननिंद कृतयज्ञनादनु. आ धर्मविदु नृपनु इष्टियन्नु यजिसि इंद्रसमनाद विश्रुत पुत्रनन्नु हुट्टिसिदनु.

चैद्योपरिचरं वीरं वसुं नामांतरिक्षगम् ।
चैद्योपरिचराज्जज्ञे गिरिका सप्त मानवान् ।। १-३२-९१

अवने वीर चैद्य वसु. अंतरिक्षदल्लि संचरिसुत्तिद्दुदरिंद अवन हॆसरु उपरिचर ऎंदायितु. चैद्य उपरिचरनिगॆ गिरिकॆयल्लि एळु मानवरु हुट्टिदरु.

महारथो मगधराड्विश्रुतो यो बृहद्रथः ।
प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम् ।। १-३२-९२

महारथ मगधराज विश्रुत बृहद्रथ, प्रत्यग्रहन्न् मत्तु कुश. कुशनन्नु मणिवाहन ऎंदू करॆयुत्तिद्दरु.

मारुतश्च यदुश्चैव मत्स्यः काली च सत्तमः ।
बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः ।। १-३२-९३

उळिदवरु मारुत, यदु, सत्तम मत्स्य मत्तु काली. बृहद्रथन मगनु कुशाग्र ऎंब हॆसरिनिंद विश्रुतनादनु.

कुशाग्रस्यात्मजो विद्वान्वृषभो नाम वीर्यवान् ।। १-३२-९४
वृषभस्य तु दायादः पुष्पवान्नाम धार्मिकः ।
दायादस्तस्य विक्रांतो राजा सत्यहितः स्मृतः ।। १-३२-९५

कुशाग्रन मग विद्वान वृषभ ऎंब हॆसरिन वीर्यवाननु. वृषभन पुत्रनु पुष्पवान् ऎंब हॆसरिन धार्मिकनु. अवन विक्रांत मगनु राजा सत्यहित.

तस्य पुत्रोऽथ धर्मात्मा नाम्ना ऊर्जस्तु जज्ञिवान् ।
ऊर्जस्य संभवः पुत्रो यस्य जज्ञे स वीर्यवान् ।। १-३२-९६

अवन मगनु धर्मात्मा ऊर्ज ऎंब हॆसरिनवनु हुट्टिदनु. ऊर्जन मगन हॆसरु संबव. अवनिगॆ वीर्यवान् जरासंधनु हुट्टिदनु.

शकले द्वे स वै जातो जरया संधितः स तु ।
जरया संधितो यस्माज्जरासंधस्ततः स्मृतः ।। १-३२ ९७

ऎरडु भागगळल्लि हुट्टिद्द अवनन्नु जरॆयु जोडिसिद्दळु. जरॆयिंद संधितनादुदरिंद अवनु जरासंधनॆनिसिकॊंडनु.

सर्वक्षत्रस्य जेतासौ जरासंधो महाबलः ।
जरासंधस्य पुत्रो वै सहदेवः प्रतापवान् ।। १-३२-९८

ई महाबल जरासंधनु सर्वक्षत्रियरन्नू जयिसिद्दनु. जरासंधन पुत्रनु प्रतापवान् सहदेवनु.

सहदेवात्मजः श्रीमानुदायुः स महायशाः ।
उदायुर्जनयामास पुत्रं परमधार्मिकम् ।। १-३२-९९

सहदेवन मगनु श्रीमान् महायशस्वी उदायु. उदायुवु परमधार्मिक पुत्रनन्नु हुट्टिसिदनु.

श्रुतधर्मेति नामानं मघवान्योऽवसद्विभुः ।
परीक्षितस्तु दायादो धार्मिको जनमेजयः ।। १-३२-१००

श्रुतधर्म ऎंब हॆसरिन ई विभुवु मघनाननंतिद्दनु. कुरुविन इन्नॊब्ब मग परीक्षितन मगनु धार्मिक जनमेजयनादनु.

जनमेजयस्य दायादस्त्रय एव महारथाः ।
श्रुतसेनोग्रसेनौ च भीमसेनश्च नामतः ।। १-३२-१०१

जनमेजयन मक्कळु मूवरु महारथरु. श्रुतसेन, उग्रसेन मत्तु भीमसेन ऎंब हॆसरिनवरु.

एते सर्वे महाभागा विक्रांता बलशालिनः ।
जनमेजयस्य पुत्रौ तु सुरथो मतिमांस्तथा ।। १-३२-१०२

इवरॆल्लर महाभागरू विक्रांत बलशालिगळागिद्दरु. जनमेजयनिगॆ इब्बरु मक्कळादरु – सुरथ मत्तु मतिमान्.

सुरथस्य तु विक्रांतः पुत्रो जज्ञे विदूरथः ।
विदूरथस्य दायाद ऋक्ष एव महारथः ।। १-३२-१०३

सुरथनिगॆ विदूरथनॆंब विक्रांत पुत्रनु हुट्टिदनु. विदूरथन मगने महारथ ऋक्ष.

द्वितीयः स बभौ राजा नाम्ना तेनैव संज्ञितः ।
द्वावृक्षौ तव वंशेऽस्मिंद्वावेव तु परीक्षितौ ।। १-३२-१०४

इवरु ऎरडनॆय ऋक्ष. मॊदलिनवन हॆसरिनिंदले करॆयल्पट्टवनु. हीगॆ निन्न वंशदल्लि इब्बरु ऋक्षरू इब्बरू परीक्षितरू आगिहोगिद्दारॆ.

भीमसेनास्त्रयो राजन् द्वावेव जनमेजयौ ।
ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्सुतः ।। १-३२-१०५

राजन्! निन्न वंशदल्लि मूवरु भीमसेनरू, इब्बरू जनमेजयरू आगिहोदरु. ऎरडने ऋक्षनिगॆ भीमसेननु सुतनादनु.

प्रतीपो भीमसेनस्य प्रतीपस्य तु शंतनुः ।
देवापिर्बाह्लिकश्चैव त्रय एव महारथाः ।। १-३२-१०६

प्रतीपनु भीमसेनन मग. मत्तु प्रतीपनिगॆ शंतनु, देवापि मत्तु बाह्लिक ऎन्नुव मूवरु महारथ पुत्ररु.

शंतनोः प्रसवस्त्वेष यत्र जातोऽसि पार्थिव ।
बाह्लिकस्य तु राज्यं वै सप्तवाह्यं नरेश्वर ।। १-३२-१०७

पार्थिव! नीनु हुट्टिरुव ई वंशवु शंतनुविनद्दु. नरेश्वर! बाह्लिकन राज्यवादरो सप्तवाह्य6वागित्तु.

बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः ।
जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः ।। १-३२-१०८

बाह्लीकन मगनु महायशस्वी सोमदत्तनु. सोमदत्तनिगॆ भूरि, भूरिश्रव मत्तु शल – ई मूवरु हुट्टिदरु.

उपाध्यायस्तु देवानां देवापिरभवन्मुनिः ।
च्यवनस्य कृतः पुत्र इष्टश्चासीन्महात्मनः ।। १-३२-१०९

देवापियादरो देवतॆगळ उपाध्यायनागि मुनियागिद्दनु. महात्म च्यवननु अवनन्नु तन्न पुत्रनन्नागि माडिकॊंडिद्दनु.

शंतनुस्त्वभवद्राजा कौरवाणां धुरंधरः ।
शंतनोः संप्रवक्ष्यामि यत्र जातोऽसि पार्थिव ।। १-३२-११०

शंतनुवादरो कौरवर धुरंधर राजनागिद्दनु. पार्थिव! नीनु हुट्टिरुव शंतनुविन वंशवन्नु हेळुत्तेनॆ.

गांगं देवव्रतं नाम पुत्रं सोऽजनयत्प्रभुः ।
स तु भीष्म इति ख्यातः पांडवानां पितामहः ।। १-३२-१११

प्रभु शांतनुवु गंगॆयल्लि देवव्रतनॆंब हॆसरिन मगनन्नु हुट्टिसिदनु. अवनादरो पांडवर पितामह भीष्मनॆंदु ख्यातनादनु.

काली विचित्रवीर्यं तु जनयामास भारत ।
शंतनोर्दयितं पुत्रं धर्मात्मानमकल्मषम् ।। १-३२-११२

भारत! कालीयु शंतनुविन प्रीतिय पुत्र धर्मात्म अकल्मष विचित्रवीर्यनिगॆ जन्मवित्तळु.

कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके ।
धृतराष्ट्रं च पांडुं च विदुरं चाप्यजीजनत् ।। १-३२-११३

कृष्णद्वैपायननु विचित्रवीर्यन क्षेत्रदल्लि धृतराष्ट्र, पांडु मत्तु विदुररिगॆ जन्मवित्तनु.

धृतराष्ट्रश्च गांधार्यां पुत्रानुत्पादयच्छतम् ।
तेषां दुर्योधनः श्रेष्ठः सर्वेषामेव स प्रभुः ।। १-३२-११४

धृतराष्ट्रनु गांधारियल्लि नूरु पुत्ररन्नु हुट्टिसिदनु. अवरॆल्लरल्लि प्रभु दुर्योधननु श्रेष्ठनागिद्दनु.

पांडोर्धनंजयः पुत्रः सौभद्रस्तस्य चात्मजः ।
अभिमन्युः परीक्षित्तु पिता तव जनेश्वर ।। १-३२-११५

पांडुविन पुत्र धनंजनु सुभद्रॆयल्लि मग अभिमन्युवन्नु पडॆदनु. जनेश्वर! अभिमन्युविन मग परीक्षितनु निन्न तंदॆ.

एष ते पौरवो वंशो यत्र जातोऽसि पार्थिव ।
तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा ।। १-३२-११६

पार्थिव! इदु नीनु हुट्टिरुव पौरव वंश. ईग तुर्वसुविन, नंतर द्रुह्यु, अनु मत्तु यदुविन वंशगळ कुरितु हेळुत्तेनॆ.

सुतस्तु तुर्वसोर्वह्निर्वह्नेर्गोभानुरात्मजः ।
गोभानोस्तु सुतो राजा त्रैसानुरपराजितः ।। १-३२-११७

तुर्वसुविन मगनु वह्नि. वह्निय मगनु गोभानु. गोभानुविन मगनु अपराजित राजा त्रैसानु.

करंधमस्तु त्रैसानोर्मरुत्तस्तस्य चात्मजः ।
अन्यस्त्वावीक्षितो राजा मरुत्तः कतिथस्तव ।। १-३२-११८

करंधमनु त्रैसानुविन मगनु मत्तु मरुत्तनु अवन मगनु. अवीक्षितन मग राजा मरुत्तनु बेरॆ. अवन कुरितागि ई मॊदले निनगॆ हेळियागिदॆ7.

अनपत्योऽभवद्राजा यज्वा विपुलदक्षिणः ।
दुहिता संमता नाम तस्यासीत्पृथिवीपते ।। १-३२-११९

ई करंधमपुत्र राजा मरुत्तनु पुत्रहीननागिद्दनु. इवनु यज्ञगळन्नु नॆरवेरिसि विपुल दक्षिणॆगळन्नु नीडुत्तिद्दनु. ई पृथिवीपतिगॆ संमता ऎंब हॆसरिन पुत्रियिद्दळु.

दक्षिणार्थं स्म वै दत्ता संवर्ताय महात्मने ।
दुष्यंतं पौरवं चापि लेभे पुत्रमकल्मषम् ।। १-३२-१२०

मरुतनु अवळन्नु महात्म संवर्तनिगॆ दक्षिणॆयागि कॊट्टिद्दनु. अवळे अकल्मष पौरव दुष्यंतनन्नु मगनन्नागि पडॆदळु8.

एवं ययातेः शापेन जरासंक्रमणे तदा ।
पौरवं तुर्वसोर्वंशः प्रविवेश नृपोत्तम ।। १-३२-१२१

नृपोत्तम! हीगॆ मुप्पन्नु हॊरिसुव समयदल्लि ययातियिंद शापग्रस्तवागिद्द तुर्वसुविन वंशवु लयगॊंडु पौरव वंशवन्नु प्रवेशिसितु.

दुष्यंतस्य तु दायादाः करुत्थामः प्रजेश्वरः ।
करुत्थामात्तथाक्रीडश्चत्वारस्तस्य चात्मजाः ।। १-३२-१२२

दुष्यंतन मगनु प्रजेश्वर करुत्थाम9. करुत्थामनिंद आक्रीडन जन्मवायितु. अवनिगॆ नाल्वरु मक्कळिद्दरु.

पांड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिवः तेषां जनपदाः स्फीताः पांड्याश्चोलाः सकेरलाः ।। १-३२-१२३

पांड्य, केरल, कोल, मत्तु पार्थिव चोल. अवर जनपदगळु समृद्धशाली पांड्य, चोल, मत्तु केरलगळु.

द्रुह्योश्च तनयो राजन्बभ्रुः सेतुश्च पार्थिवः ।
अंगारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते ।। १-३२-१२४

राजन्! द्रुह्युविन पुत्ररु पार्थिव बभ्रु मत्तु सेतु. अंगारसेतुवु सेतुविन सत्पुत्रनु. अवनन्नु मरुत्पतियॆंदू करॆयुत्तिद्दरु.

यौवनाश्वेन समरे कृच्छ्रेण निहतो बली ।
युद्धं सुमहदस्याऽऽसीन्मासान्परि चतुर्दश ।। १-३२-१२५

युवनाश्वन मग मांधातनॊडनॆ नडॆद हदिनाल्कु तिंगळुगळ महा युद्धदल्लि आ बलशालियु समरांगणदल्लि अति कष्टदिंद हतनादनु.

अंगारस्य तु दायादो गांधारो नाम भारत ।
ख्यायते तस्य नाम्ना वै गांधारविषयो महान् ।। १-३२-१२६

भारत! अंगारन मगनु गांधार ऎंब हॆसरिनवनु. अवन हॆसरिनिंदले ई महान् गांधारदेशवु प्रख्यातवागिदॆ.

गांधारदेशजाश्चैव तुरगा वाजिनां वराः ।
अनोस्तु पुत्रो धर्मोऽभूद्धृतस्तस्यात्मजोऽभवत् ।। १-३२-१२७

श्रेष्ठ तुरग वाजिगळु गांधारदेशदल्लिये हुट्टिदवु. अनुविन पुत्रनु धर्मनागिद्दनु. अवन मगनु धृतनादनु.

धृतात्तु दुदुहो जज्ञे प्रचेतास्तस्य चात्मजः ।
प्रचेतसः सुचेतास्तु कीर्तितो ह्यानवो मया ।। १-३२-१२८

धृतन मगनु दुदुहनु. अवन मगनु प्रजेत. प्रचेतन मग सुचेत. हीगॆ नानु अनुविन वंशवन्नु हेळिद्देनॆ.

यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः ।
विस्तरेणानुपूर्व्यात्तु गदतो मे निशामय ।। १-३२-१२९

ईग नानु ययातिय ज्येष्ठपुत्र उत्तम तेजस यदुविन वंशवन्नु विस्तारवागि मॊदलिनिंद हेळुत्तेनॆ. नन्नन्नु केळु.”

समाप्ति

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पुरुवंशानुकीर्तने द्वात्रिंशोऽध्यायः


  1. मुंदिन 18 श्लोकगळु गीताप्रॆस् गोरखपुरद संपुटदल्लि इल्ल. ↩︎

  2. ई श्लोक मत्तु मुंदिन हलवारु श्लोकगळु हरिवंशद अध्याय 29रल्लि ई मॊदले बंदिवॆ. ↩︎

  3. इदक्कॆ मॊदलु गीताप्रॆस् गोरखपुर संपुटदल्लि ई ऒंदु श्लोकार्धविदॆ: अजमीढोऽपरो वंशः श्रूतयां पुरुषर्षभ। ↩︎

  4. तन्न पितामहनंतॆ सत्यधृतिगॆ शरद्वतनॆंब हॆसरू इद्दित्तु. ↩︎

  5. सोमकनु तन्न मग जंतुवन्नु यज्ञपशुवन्नागि माडि अवन बदलागि नूरु मक्कळन्नु पडॆद कथॆयु अरण्यक पर्वद अध्याय 127-128रल्लि बंदिदॆ. ↩︎

  6. मंत्रिये मॊदलाद एळु राज्यांगगळिंद संचलितगॊळ्ळलु योग्यवागित्तु. ↩︎

  7. अश्वमेधिक पर्वद अध्याय 3-10रल्लि व्यासनु युधिष्ठिरनिगॆ मरुत्तन कुरितु हेळिद कथॆयु बंदिदॆ. ↩︎

  8. संवर्तनु संमताळन्नु दुष्यंतन तंदॆगॆ कॊट्टिद्दनु. ↩︎

  9. इवनु शकुंतलॆय मगनल्ल. दुष्यंतन इन्नॊब्ब पत्निय मगनु. ↩︎